सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी । दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि
वैष्णवानां च शैवानामुपास्येयं च नित्यशः । मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी
तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् । वाग्भवं शम्भुवनिता कामबीजं ततः परम्
चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् । नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः
ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः । छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः
महाकाली महालक्ष्मीः सरस्वत्यपि देवताः । स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा
नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः
ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् । स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये
बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि । षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः
शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च । गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत्
खड्गचक्रगदाबाणचापानि परिघं तथा । शूलं भुशुण्डीं च शिरः शङ्खं सन्दधतीं करैः
महाकालीं त्रिनयनां नानाभूषणभूषिताम् । नीलाञ्जनसमप्रख्यां दशपादाननां भजे
मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः । एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम्
अक्षमालां च परशुं गदेषुकुलिशानि च । पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा
चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् । पाशं सुदर्शनं चैव दधतीमरुणप्रभाम्
रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् । महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम्
घण्टाशूले हलं शङ्खं मुसलं च सुदर्शनम् । धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम्
शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् । महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम्
यन्त्रमस्याः शृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् । ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम्
भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् । शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा
बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः । जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत्
पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् । श्रिया सह हरिं तत्र नैर्ऋते कोणके यजेत्
पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् । देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम्
महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् । नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम्
दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च । ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा
वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा । पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः
विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा । छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया
क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् । दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात्
ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् । वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः
इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् । पूजयेदनया रीत्या देवीं सावरणां ततः