कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम्
रत्नमालां दक्षिणे च नैर्ऋत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः
मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी
ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत्
ततो देवीं सावरणां गन्धाद्यैरुपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः
ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसंख्यं च जपं नित्यं कुर्यात्प्रयत्नतः
य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम्
यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा
केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा
अत्रोक्तानां तु मन्त्राणां वर्णसंख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत्
तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः । नारद उवाच स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति
श्रीनारायण उवाच नमस्ते परमेशानि रासमण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये
नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे
नमः सरस्वतीरूपे नमः सावित्रि शङ्करि । गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके
नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि । नमो दुर्गे भगवति नमस्ते सर्वरूपिणि
मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् । संसारसागरादस्मानुद्धराम्ब दयां कुरु
इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः । न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति
देहान्ते च वसेन्नित्यं गोलोके रासमण्डले । इदं रहस्यं परमं न चाख्येयं तु कस्यचित्
अधुना शृणु विप्रेन्द्र दुर्गादेव्या विधानकम् । यस्याः स्मरणमात्रेण पलायन्ते महापदः
एनां न भजते यो हि तादृङ्नास्त्येव कुत्रचित् । सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता
सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी । दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि
वैष्णवानां च शैवानामुपास्येयं च नित्यशः । मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी
तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् । वाग्भवं शम्भुवनिता कामबीजं ततः परम्
चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् । नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः
ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः । छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः
महाकाली महालक्ष्मीः सरस्वत्यपि देवताः । स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा
नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः
ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् । स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये
बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि । षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः
शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च । गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत्