अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम्
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति
राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च
छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता
मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम्
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम्
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम्
कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम्
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभूषणभूषिताम्
शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम्
सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम्
रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम्
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत्
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया
मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत्
अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम्
पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च
ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम्
कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम्
रत्नमालां दक्षिणे च नैर्ऋत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः
मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी
ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत्
ततो देवीं सावरणां गन्धाद्यैरुपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः
ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसंख्यं च जपं नित्यं कुर्यात्प्रयत्नतः
य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम्
यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा
केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा
अत्रोक्तानां तु मन्त्राणां वर्णसंख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत्