श्रीनारायण उवाच शृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् । यन्न कस्यापि चाख्यातं सारात्सारं परात्परम्
श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् । मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे
प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् । जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा
तदधीनं जगत्सर्वं विराडादिचराचरम् । यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः
ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् । तत्रादौ राधिकामन्त्रं शृणु नारद भक्तितः
ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः । श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम्
षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते
जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले
विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा । तेन धर्मस्तेन चाहमित्येषा हि परम्परा
अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम्
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति
राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च
छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता
मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम्
पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम्
कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम्
कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम्
ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभूषणभूषिताम्
शृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम्
सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम्
रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम्
एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः
आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत्
पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया
मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत्
अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम्
पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च
ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम्