दीर्घं च विस्तृतं चैव परितः शतयोजनम् । गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः
गोपिकानां च राधायाः क्रीडावापी बभूव सा । रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया
बभूव कामधेनूनां सहसा लक्षकोटयः । यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः
तासां पुत्राश्च बहवः सम्बभूवुरसंख्यकाः । कथिता च गवां सृष्टिस्तया च पूरितं जगत्
पूजां चकार भगवान् सुरभ्याश्च पुरा मुने । ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः । बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम्
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् । वेदोक्तं च महाभाग निबोध कथयामि ते
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः । सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः
ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः । ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् । गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम्
पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् । यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे
घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि । शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः
दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः । यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया । क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः
ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा । तदाज्ञया च सुरभिं तुष्टाव पाकशासनः
पुरन्दर उवाच नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीजस्वरूपायै नमस्ते जगदम्बिके
नमो राधाप्रियायै च पद्मांशायै नमो नमः । नमः कृष्णप्रियायै च गवां मात्रे नमो नमः
कल्पवृक्षस्वरूपायै सर्वेषां सततं परे । क्षीरदायै धनदायै बुद्धिदायै नमो नमः
शुभायै च सुभद्रायै गोप्रदायै नमो नमः । यशोदायै कीर्तिदायै धर्मदायै नमो नमः
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी
महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम्
बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिमान्पुत्रवांस्तथा
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरे
सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् । न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सुरभ्युपाख्यानवर्णनं नामेकोनपञ्चाशत्तमोऽध्यायः
देव्या आवरणपूजाविधिवर्णनम् नारद उवाच श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् । यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात्
अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् । राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम्
महिमा वर्णितोऽतीव भवता परयोर्द्वयोः । श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर
ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् । ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना