तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत्
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः
सुरभ्युपाख्यानवर्णनम् नारद उवाच का वा सा सुरभिर्देवी गोलोकादागता च या । तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः
श्रीनारायणाय उवाच गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः । गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा
सर्वादिसृष्टेश्चरितं कथयामि निशामय । बभूव तेन तज्जन्म पुरा वृन्दावने वने
एकदा राधिकानाथो राधया सह कौतुकी । गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ
सहसा तत्र रहसि विजहार स कौतुकात् । बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च
ससृजे सुरभिं देवीं लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः
दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च । क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम्
तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयसां भाण्डविस्रंसनेन च
दीर्घं च विस्तृतं चैव परितः शतयोजनम् । गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः
गोपिकानां च राधायाः क्रीडावापी बभूव सा । रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया
बभूव कामधेनूनां सहसा लक्षकोटयः । यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः
तासां पुत्राश्च बहवः सम्बभूवुरसंख्यकाः । कथिता च गवां सृष्टिस्तया च पूरितं जगत्
पूजां चकार भगवान् सुरभ्याश्च पुरा मुने । ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा
दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः । बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम्
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् । वेदोक्तं च महाभाग निबोध कथयामि ते
ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः । सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः
ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः । ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् । गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम्
पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् । यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे
घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि । शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः
दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः । यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया । क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः
ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा । तदाज्ञया च सुरभिं तुष्टाव पाकशासनः
पुरन्दर उवाच नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीजस्वरूपायै नमस्ते जगदम्बिके
नमो राधाप्रियायै च पद्मांशायै नमो नमः । नमः कृष्णप्रियायै च गवां मात्रे नमो नमः
कल्पवृक्षस्वरूपायै सर्वेषां सततं परे । क्षीरदायै धनदायै बुद्धिदायै नमो नमः
शुभायै च सुभद्रायै गोप्रदायै नमो नमः । यशोदायै कीर्तिदायै धर्मदायै नमो नमः
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी