बभूव पुष्पवृष्टिश्च नभसो मनसोपरि । देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया
तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः । पुरन्दर उवाच देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम्
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना । स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम्
न क्षमः प्रकृते वक्तुं गुणानां गणनां तव । शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता
न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः । त्वं मया पूजिता साध्वी जननी मे यथादितिः
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः । त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि
अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा । नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके
तथापि तव पूजां च वर्धयामि सुरेश्वरि । ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने । पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः । ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा । त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः । तपसा तेजसा त्वां च मनसा ससृजे पिता
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा । मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी
तेन त्वं मनसादेवी पूजिता वन्दिता भव । ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम्
तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः । सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात्
यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः । इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम्
प्रजगाम स्वभवनं भूषया सपरिच्छदम् । पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः । गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम्
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् । ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम्
तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ । इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत्
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत्
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः
सुरभ्युपाख्यानवर्णनम् नारद उवाच का वा सा सुरभिर्देवी गोलोकादागता च या । तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः
श्रीनारायणाय उवाच गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः । गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा
सर्वादिसृष्टेश्चरितं कथयामि निशामय । बभूव तेन तज्जन्म पुरा वृन्दावने वने
एकदा राधिकानाथो राधया सह कौतुकी । गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ
सहसा तत्र रहसि विजहार स कौतुकात् । बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च
ससृजे सुरभिं देवीं लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः
दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च । क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम्
तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयसां भाण्डविस्रंसनेन च