धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि । तयोर्बभूव संवादः सुप्रीतिश्च परस्परम्
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ । स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः
तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् । राजा जगाम तरसा देहं त्यक्त्वा परत्र च
संस्कारं कारयामास पितुर्वै जनमेजयः । राजा चकार यज्ञं च सर्पसत्रं ततो मुने
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा । स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः । अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम्
तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः । तत आस्तीक आगत्य यज्ञं च मातुराज्ञया
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् । ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा । विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम्
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् । शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः
मनसां पूजयामास तुष्टाव परमादरात् । नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया । सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि । नारद उवाच केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम्
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः । श्रीनारायण उवाच सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी
रत्नसिंहासने देवीं वासयामास भक्तितः । स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः । वाससी वासयामास वह्मिशुद्धे मनोहरे
सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् । ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् । दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा । वाद्यं नानाप्रकारं च वादयामास तत्र वै
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि । देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया
तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः । पुरन्दर उवाच देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम्
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना । स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम्
न क्षमः प्रकृते वक्तुं गुणानां गणनां तव । शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता
न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः । त्वं मया पूजिता साध्वी जननी मे यथादितिः
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः । त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि
अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा । नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके
तथापि तव पूजां च वर्धयामि सुरेश्वरि । ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने । पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः । ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः