यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च । जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया
सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः । दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः
आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् । शङ्करं च नमस्कृत्य स्थित्वा तत्रैव बालकः
सा चाजगाम मनसा कश्यपस्याश्रमं पितुः । तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः
शतलक्षं च रत्नानां बाह्मणेभ्यो ददौ मुने । ब्राह्मणान्भोजयामास सोऽसंख्यान् श्रेयसे शिशोः
अदितिश्च दितिश्चान्या मुदं प्राप परन्तप । सा सपुत्रा च सुचिरं तस्थौ तातालये सदा
तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय । अथाभिमन्युतनये ब्रह्मशापः परीक्षिते
बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा । सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति
शशाप शृङ्गी तत्रैव कौशिक्याश्च जलेन वै । राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः
तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः । सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि
धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि । तयोर्बभूव संवादः सुप्रीतिश्च परस्परम्
धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ । स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः
तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् । राजा जगाम तरसा देहं त्यक्त्वा परत्र च
संस्कारं कारयामास पितुर्वै जनमेजयः । राजा चकार यज्ञं च सर्पसत्रं ततो मुने
प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा । स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ
सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः । अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम्
तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः । तत आस्तीक आगत्य यज्ञं च मातुराज्ञया
महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् । ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया
यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा । विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम्
मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् । शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः
मनसां पूजयामास तुष्टाव परमादरात् । नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा
प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया । सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते
इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि । नारद उवाच केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम्
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः । श्रीनारायण उवाच सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी
रत्नसिंहासने देवीं वासयामास भक्तितः । स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः । वाससी वासयामास वह्मिशुद्धे मनोहरे
सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् । ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् । दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा । वाद्यं नानाप्रकारं च वादयामास तत्र वै