धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका । हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः
यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः । सा गर्भधारिणी या च गर्भावासविमोचनी
दयारूपा च भगिनी यमभीतिविमोचनी । विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः
गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् । आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम्
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः । वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम्
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् । दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः । विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् । जननीं गर्भजक्लेशाद्यमयातनया तथा
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः । परमानन्दरूपं च कृष्णमार्गमनश्वरम्
न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् । भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम्
निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया । मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये
क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते । पुष्करे तपसे यामि गच्छ देवि यथासुखम्
श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः । जरत्कारुवचः श्रुत्वा मनसा शोककातरा
साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् । मनसोवाच दोषो नास्त्येव मे त्यक्तुं निद्राभङ्गेन ते प्रभो
यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि । बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम्
प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः । पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः
सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः । पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ
नेत्रे यथैकनेत्राणां तृषितानां यथा जले । क्षुधितानां यथान्ने च कामुकानां च मैथुने
यथा परस्वे चौराणां यथा जारे कुयोषिताम् । विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा
तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो । इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे
क्षणं चकार क्रोडे तां कृपया च कृपानिधिः । नेत्रोदकेन मनसां स्नापयामास तां मुनिः
साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा । तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः
स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः । जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च
जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः । पार्वती बोधयामास मनसां शोककर्शिताम्
शिवश्चातीव ज्ञानेन शिवेन च शिवालयः । सुप्रशस्ते दिने साध्वी सुषुवे मङ्गलक्षणे
नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् । गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः
सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः । जातकं कारयामास वाचयामास मङ्गलम्
वेदांश्च पाठयामास शिवाय च शिवः शिशोः । मणिरत्नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः
पार्वती च गवां लक्षं रत्नानि विविधानि च । शम्भुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा
बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् । भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा