देववा ऊचुः जय देव गणाध्यक्ष उमालालितपङ्कज । अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते
महामायाविलसितस्थानाय परमात्मने । वृषाङ्कायामरेशाय कैलासस्थितिशालिने
अहिर्बुध्न्याय मान्याय मनवे मानदायिने । अजाय बहुरूपाय स्वात्मारामाय शम्भवे
गणनाथाय देवाय गिरिशाय नमोऽस्तु ते । महाविभूतिदात्रे ते महाविष्णुस्तुताय च
विष्णुहृत्कञ्जवासाय महायोगरताय च । योगगम्याय योगाय योगिनां पतये नमः
योगीशाय नमस्तुभ्यं योगानां फलदायिने । दीनदानपरायापि दयासागरमूर्तये
आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये । वृषध्वजाय कालाय कालकालाय ते नमः
सूत उवाच एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः । प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान्
श्रीभगवानुवाच प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः । मनोरथं पूरयामि सर्वेषां देवतर्षभाः
देवा ऊचुः सर्वदेवेश गिरिश शशिमौलिविराजित । आर्तानां शङ्करस्त्वं च शं विधेहि महाबल
पर्वतो विन्ध्यनामास्ति मेरुद्वेष्टा महोन्नतः । भानुमार्गनिरोद्धा हि सर्वेषां दुःखदोऽनघ
तदवृद्धिं स्तम्भयेशान सर्वकल्याणकृद्भव । भानुसञ्चाररोधेन कालज्ञानं कथं भवेत्
नष्टे स्वाहास्वधाकारे लोके कः शरणं भवेत् । अस्माकं च भयार्तानां भवानेव हि दृश्यते
दुःखनाशकरो देव प्रसीद गिरिजापते । श्रीशिव उवाच नास्माकं शक्तिरस्तीह तद्वृद्धिस्तम्भने सुराः
इममेवं वदिष्यामो भगवन्तं रमाधवम् । सोऽस्माकं प्रभुरात्मा च पूज्यः कारणरूपधृक्
गोविन्दो भगवान्विष्णुः सर्वकारणकारणः । तं गत्वा कथयिष्यामः स दुःखान्तो भविष्यति
इत्येवमाकर्ण्य गिरीशभाषितं देवाश्च सेन्द्राः सपयोजसम्भवाः । रुद्रं पुरस्कृत्य च वेपमाना वैकुण्ठलोकं प्रतिजग्मुरञ्जसा
श्रीविष्णुना देवेभ्यो वरप्रदानम् सूत उवाच ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् । विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम्
स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः । देवा ऊचुः जय विष्णो रमेशाद्य महापुरुष पूर्वज
दैत्यारे कामजनक सर्वकामफलप्रद । महावराह गोविन्द महायज्ञस्वरूपक
महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण । मत्स्यावतारे वेदानामुद्धाराधाररूपक
सत्यव्रत धराधीश मत्स्यरूपाय ते नमः । जयाकूपार दैत्यारे सुरकार्यसमर्पक
अमृताप्तिकरेशान कूर्मरूपाय ते नमः । जयादिदैत्यनाशार्थमादिसूकररूपधृक्
मह्युद्धारकृतोद्योगकोलरूपाय ते नमः । नारसिंहं वपुः कृत्वा महादैत्यं ददार यः
करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः । वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम्
बलिं सञ्छलयामास तस्मै वामनरूपिणे । दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे
रेणुकागर्भजाताय जामदग्न्याय ते नमः । दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे
श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च । कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः
भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः । धर्मं संस्थापयामास पापं कृत्वा सुदूरतः
तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो । दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये