पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् । सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्
सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् । सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम्
तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् । पुण्ये च भारते वर्षे पतिसेवा करोति या
वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् । विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम्
असत्कुले प्रसूता हि तत्फलं श्रूयतां सति । कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ
ततो भवति चाण्डाली पतिपुत्रविवर्जिता । इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः
चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् । साध्व्युवाच सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव
कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत । शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति वै
स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ । इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे
पपात भक्त्या भीता च रुरोद च पुनः पुनः । कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम्
तत्राजगाम भगवान्सन्ध्यया सह नारद । तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम्
विनयेन च भीतश्च तया सह यथोचितम् । भास्कर उवाच सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च
बोधयामास त्वां विप्र शरणं त्वामहं गतः । क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने
ब्राह्मणानां च हृदयं नवनीतसमं सदा । तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत्
पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः । ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा
श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् । सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह
सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् । तत्याज मनसां विप्रः प्रतिज्ञापालनाय च
रुदतीं शोकसंयुक्तां हृदयेन विदूयता । सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम्
कश्यपं जन्मदातारं विपत्तौ भयकर्शिता । तत्राजगाम गोपीशो भगवाच्छम्भुरेव च
विधिश्च कश्यपश्चैव मनसा परिचिन्तितः । दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम्
तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः । नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा
कथमागमनं देवा इति प्रश्नं चकार सः । ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम्
प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् । यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती
कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै । जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् । स्रवते तस्य पुण्यं च चालन्यां च यथा जलम्
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः । चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम्
मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् । जरत्कारुरुवाच गर्भेणानेन मनसे तव पुत्रो भविष्यति
जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः । तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः
वरो वेदविदां चैव ज्ञानिनां योगिनां तथा । स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत्
नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा । पतिव्रता सुशीला या सा प्रिया प्रियवादिनी