इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् । नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः । मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः । पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले । सुधासमं विषं तस्य धन्वन्तरिसमो भवेत्
ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः । आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् । धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम्
पूजाविधानं कथितं तदाख्यानं निशामय । कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि । गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम्
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा । तपसा मनसा तेन बभूव मनसा च सा
कुमारी सा च सम्भूता जगाम शङ्करालयम् । भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम्
दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता । आशुतोषो महेशश्च तां च तुष्टो बभूव ह
महाज्ञानं ददौ तस्यै पाठयामास साम च । कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने
लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः । त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम्
पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् । प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता
जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः
सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् । दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः
पूजां च कारयामास चकार च स्वयं हरिः । वरं च प्रददौ तस्यै पूजिता त्वं भवे भव
वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः । प्रथमे पूजिता सा च कृष्णेन परमात्मना
द्वितीये शङ्करेणैव कश्यपेन सुरेण च । मुनिना मनुना चैव नागेन मानवादिभिः
बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता । जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा
अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया । कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम्
सुष्वाप देव्या जघने वटमूले च पुष्करे । निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम्
जगामास्तं दिनकरः सायङ्काल उपस्थिते । सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता
धर्मलोपभयेनैव चकारालोचनं सती । अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम्
ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम । नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम्
स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् । वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी
स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने । मुनिरुवाच कथं मे सुखिनः साध्वि निद्राभङ्गः कृतस्त्वया
व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी । तपश्चानशनं चैव व्रतं दानादिकं च यत्
भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् । यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया