आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः
जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः । गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः । पूजां च कारयामास चकार च स्वयं प्रभुः
स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः । भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४ जगद्गौरीति विख्याता तेन सा पूजिता सती । शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता
विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता । नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च
नागेश्वरीति विख्याता सा नागभगिनीति च । विषं संहर्तुमीशा या तेन विषहरी स्मृता
सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी । महाज्ञानं च योगं च मृतसज्जीवनीं पराम्
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः । आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी
आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता । प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः
योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी
वैष्णवी नागभगिनी शैवी नागेश्वरी तथा । जरत्कारुप्रियास्तीकमाता विषहरेति च
महाज्ञानयुता चैव सा देवी विश्वपूजिता । द्वादशैतानि नामानि पूजाकाले तु यः पठेत्
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । नागभीते च शयने नागग्रस्ते च मन्दिरे
नागशोभे महादुर्गे नागवेष्टितविग्रहे । इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः
नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते । दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्
स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः । नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः
नागासनो नागतल्पो महासिद्धो भवेन्नरः । अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम्
मनसोपाख्यानवर्णनम् श्रीनारायण उवाच मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव । ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम्
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम्
महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् । सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे
इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् । नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः
मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः । मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः
ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः । पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्
मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले । सुधासमं विषं तस्य धन्वन्तरिसमो भवेत्
ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः । आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः
पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् । धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम्
पूजाविधानं कथितं तदाख्यानं निशामय । कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः
पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि । गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम्
मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः
मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा । तपसा मनसा तेन बभूव मनसा च सा