युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज
जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् । ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा
पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् । पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने । छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि । मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि
सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः । ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम्
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद । ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः । पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम्
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्
संसारसागरे घोरे ज्योतीरूपां सदा भजे । देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने
महादेव उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । हारिके विपदां राशेर्हर्षमङ्गलकारिके
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके । शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गदे देवि सर्वेषां मङ्गलालये
पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम्
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले । संसारमङ्गलाधारे मोक्षमङ्गलदायिनि
सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् । प्रतिमङ्गलवारे च पूज्ये मङ्गसुखप्रदे
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां दत्त्वा गतः शिवः
प्रथमे पूजिता देवी शिवेन सर्वमङ्गला । द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च
तृतीते पूजिता भद्रा मङ्गलेन नृपेण च । चतुर्थे मङ्गले वारे सुन्दरीभिः प्रपूजिता
पञ्चमे मङ्गलाकाङ्क्षिनरैर्मङ्गलचण्डिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा
ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी । देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने
देव्याश्च मङ्गस्तोत्रं यः शृणोति समाहितः । तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम् । वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने
श्रीनारायण उवाच उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् । श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः
सा च कन्या भगवती कश्यपस्य च मानसी । तेनैव मनसा देवी मनसा या च दीव्यति
मनसा ध्यायते या च परमात्मानमीश्वरम् । तेन सा मनसा देवी तेन योगेन दीव्यति