मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् श्रीनारायण उवाच कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् । देवी मङ्गलचण्डी च तदाख्यानं निशामय
तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् । श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि
दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका
पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः । मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका
मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका
मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी । कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता
प्रथमे पूजिता सा च शङ्करेण परात्परा । त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च
ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे । आकाशात्पतिते याने दैत्येन पातिते रुषा
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः । सा च मङ्गलचण्डी या बभूव रूपभेदतः
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो । भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति
युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज
जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् । ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा
पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् । पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने । छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि । मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि
सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः । ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम्
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद । ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके
हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः । पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम्
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम्
श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम्
संसारसागरे घोरे ज्योतीरूपां सदा भजे । देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने
महादेव उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । हारिके विपदां राशेर्हर्षमङ्गलकारिके
हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके । शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके
मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गदे देवि सर्वेषां मङ्गलालये
पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम्
मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले । संसारमङ्गलाधारे मोक्षमङ्गलदायिनि