देवसेना च पश्यन्तं नृपमापृच्छ्य सा तदा । गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता
पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः । नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह
उवाच तं नृपं ब्रह्मन् वेदोक्तं कर्मनिर्मितम् । देव्युवाच त्रिषु लोकेषु त्वं राजा स्वायम्भुवमनोः सुतः
मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु । तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम्
सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् । जातिस्मरं च योगीन्द्रं नारायणकलात्मकम्
शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् । मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम्
धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च । योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम्
यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् । इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ
राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः । जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम्
आजगाम सहामात्यः स्वगृहं हृष्टमानसः । आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम्
श्रुत्वा बभूवुः सन्तुष्टा नरा नार्यश्च नारद । मङ्गलं कारयामास सर्वत्र पुत्रहेतुकम्
देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ । राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम्
षष्ट्या देव्याश्च यत्नेन कारयामास सर्वतः । बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम्
तत्पूजां कारयामास चैकविंशतिवासरे । बालानां शुभकार्ये च शुभान्नप्राशने तथा
सर्वत्र वर्धयामास स्वयमेव चकार ह । ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय
यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत । शालग्रामे घटे वाथ वटमूलेऽथवा मुने
भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः । षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम्
सुपुत्रदां च शुभदा दयारूपां जगत्प्रसूम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्
पवित्ररूपां परमां देवसेनां परां भजे । इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् । पाद्यार्घ्याचमनीयैश्च गन्धपुष्पप्रदीपकैः
नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च । ॐ ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम्
अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः । ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः
स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम् । अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः
सुपुत्रं स लभेन्नूनमित्याह कमलोद्भवः । स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम्
वाञ्छाप्रदं च सर्वेषां गूढं वेदेषु नारद । नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः
शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः । वरदायै पुत्रदायै धनदायै नमो नमः
सुखदायै मोक्षदायै षष्ठ्यै देव्यै नमो नमः । सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः
मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः । सारायै शारदायै च परादेव्यै नमो नमः
बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः । कल्याणदायै कल्याण्यै फलदायै च कर्मणाम्
प्रत्यक्षायै स्वभक्तानां षष्ठ्यै देव्यै नमो नमः । पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु