श्रीनारायण उवाच षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता । बालकानामधिष्ठात्री विष्णुमाया च बालदा
मातृकासु च विख्याता देवसेनाभिधा च या । प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता
आयुःप्रदा च बालानां धात्री रक्षणकारिणी । सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी
तस्याः पूजाविधिं ब्रह्मनितिहासमिदं शृणु । यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम्
राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः । योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह । सुचिरं कृतदारश्च न लेभे तनयं मुने
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः । मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ
भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह । दधार तं च सा देवी दैवं द्वादशवत्सरम्
ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् । सर्वावयवसम्पन्नं मृतमुत्तारलोचनम्
तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः । मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा
श्मशानं च ययौ राजा गृहीत्वा बालकं मुने । रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि
नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः । ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात्
एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः । शुद्धस्फटिकसंकाशं मणिराजविनिर्मितम्
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा । नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम्
ददर्श तत्र देवीं च कमनीयां मनोहराम् । श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम्
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । कृपामयीं योगसिद्धां भक्तानुग्रहकातराम्
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् । चकार पूजनं तस्या विहाय बालकं भुवि
पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् । तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद
राजोवाच का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते । कस्य कन्या वरारोहे धन्या मान्या च योषिताम्
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका । उवाच देवसेना सा देवानां रणकारिणी
देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा । जयं ददौ सा तेभ्यश्च देवसेना च तेन सा
श्रीदेवसेनोवाच ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी । सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप
मातृकासु च विख्याता स्कन्दभार्या च सुव्रता । विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा
अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च । धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा
सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च । सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा
कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा । कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः
कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः । कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा
कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा । कर्मणा च भवेद्व्याधिः कर्मणाऽऽरोग्यमेव च
तस्मात्कर्म परं राजन् सर्वेभ्यश्च श्रुतौ श्रुतम् । इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने
महाज्ञानेन सा देवी जीवयामास लीलया । राजा ददर्श तं बालं सस्मितं कनकप्रभम्