भग्नदर्पो दिव्यनगो भविष्यति विनिश्चयम् । एवं निश्चित्य विन्ध्याद्रिः खं स्पृशन् ववृधे भुजैः
महोन्नतैः शृङ्गवरैः सर्वं व्याप्य व्यवस्थितः । कदोदेष्यति भास्वांस्तं रोधयिष्याम्यहं कदा
एवं सञ्चिन्तयानस्य सा व्यतीयाय शर्वरी । प्रभातं विमलं जज्ञे दिशो वितिमिराः करैः
कुर्वन्स निर्गतो भानुरुदयायोदये गिरौ । प्रकाशते स्म विमलं नभो भानुकरैः शुभैः
विकासं नलिनी भेजे मीलनं च कुमुद्वती । स्वानि कार्याणि सर्वे च लोकाः समुपतस्थिरे
हव्यं कव्यं भूतबलिं देवानां च प्रवर्धयन् । प्राह्णापराह्णमध्याह्नविभागेन त्विषां पतिः
एवं प्राचीं तथाग्नेयीं समाश्वास्य वियोगिनीम् । ज्वलन्तीं चिरकालीनविरहादिव कामिनीम्
भास्करोऽथ कृशानोश्च दिशं नूनं विहाय च । याम्यां गन्तुं ततस्तूर्णं प्रतस्थे कमलाकरः
न शशाकाग्रतो गन्तुं ततोऽनूरुर्व्यजिज्ञपत् । अनूरुरुवाच भानो मानोन्नतो विन्ध्यो निरुध्य गगनं स्थितः
स्पर्धते मेरुणा प्रेप्सुस्त्वद्दत्तां च प्रदक्षिणाम् । सूत उवाच अनूरुवाक्यमाकर्ण्य सविता ह्यास चिन्तयन्
अहो गगनमार्गोऽपि रुध्यते चातिविस्मयः । प्रायः शूरो न किं कुर्यादुत्पथे वर्त्मनि स्थितः
निरुद्धो नो वाजिमार्गो दैवं हि बलवत्तरम् । राहुबाहुग्रहव्यग्रो यः क्षणं नावतिष्ठते
स चिरं रुद्धमार्गोऽपि किं करोति विधिर्बली । एवं च मार्गे संरुद्धे लोकाः सर्वे च सेश्वराः
नान्वविन्दन्त शरणं कर्तव्यं नान्वपद्यत । चित्रगुप्तादयः सर्वे कालं जानन्ति सूर्यतः
संरुद्धो विन्ध्यगिरिणा अहो दैवविपर्ययः । यदा निरुद्धः सविता गिरिणा स्पर्धया तदा
नष्टः स्वाहास्वधाकारो नष्टप्रायमभूज्जगत् । एवं च पाश्चिमा लोका दाक्षिणात्यास्तथैव च
निद्रामीलितचक्षुष्का निशामेव प्रपेदिरे । प्राञ्चस्तथोत्तराहाश्च तीक्ष्णतापप्रतापिताः
मृता नष्टाश्च भग्नाश्च विनाशमभजन् प्रजाः । हाहाभूतं जगत्सर्वं स्वधाकव्यविवर्जितम् । देवाः सेन्द्राः समुद्विग्नाः किं कुर्म इतिवादिनः
रुद्रप्रार्थनम् सूत उवाच ततः सर्वे सुरगणा महेन्द्रप्रमुखास्तदा । पद्मयोनिं पुरस्कृत्य रुद्रं शरणमन्वयुः
उपतस्थुः प्रणतिभिः स्तोत्रैश्चारुविभूतिभिः । देवदेवं गिरिशयं शशिलोलितशेखरम्
देववा ऊचुः जय देव गणाध्यक्ष उमालालितपङ्कज । अष्टसिद्धिविभूतीनां दात्रे भक्तजनाय ते
महामायाविलसितस्थानाय परमात्मने । वृषाङ्कायामरेशाय कैलासस्थितिशालिने
अहिर्बुध्न्याय मान्याय मनवे मानदायिने । अजाय बहुरूपाय स्वात्मारामाय शम्भवे
गणनाथाय देवाय गिरिशाय नमोऽस्तु ते । महाविभूतिदात्रे ते महाविष्णुस्तुताय च
विष्णुहृत्कञ्जवासाय महायोगरताय च । योगगम्याय योगाय योगिनां पतये नमः
योगीशाय नमस्तुभ्यं योगानां फलदायिने । दीनदानपरायापि दयासागरमूर्तये
आर्तिप्रशमनायोग्रवीर्याय गुणमूर्तये । वृषध्वजाय कालाय कालकालाय ते नमः
सूत उवाच एवं स्तुतः स देवेशो यज्ञभुग्भिर्वृषध्वजः । प्राह गम्भीरया वाचा प्रहसन्विबुधर्षभान्
श्रीभगवानुवाच प्रसन्नोऽहं दिविषदः स्तोत्रेणोत्तमपूरुषाः । मनोरथं पूरयामि सर्वेषां देवतर्षभाः
देवा ऊचुः सर्वदेवेश गिरिश शशिमौलिविराजित । आर्तानां शङ्करस्त्वं च शं विधेहि महाबल