राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया । कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे
आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा । पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने
लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा । गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता
कृपां कुरु महाभागे मामेव स्वामिनं कुरु । कर्मिणां कर्मणां देवी त्वमेव फलदा सदा
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् । त्वया विना तथा कर्म कर्मिणां च न शोभते
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी
फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा । स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि । सर्वकर्मणि शक्तोऽहं त्वया सह वरानने
इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता । तुष्टा बभूव सा देवी भेजे तं कमलाकला
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् । फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः
राजसूये वाजपेये गोमेधे नरमेधके । अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे
धनदे भूमिदे पूर्ते फलदे गजमेधके । लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके
शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके । वृष्टौ वरुणयागे च कण्डके वैरिमर्दने
शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने । ब्रह्माणीकर्मयागे च योनियागे च भद्रके
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् । निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम्
इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं शृणु । शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः
लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् । सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम्
विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् । शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे
ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः । दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद
ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः । पूजयेद्विधिवद् भक्त्या दक्षिणां सर्वपूजिताम्
इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च । सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम्
इदं च दक्षिणाख्यानं यः शृणोति समाहितः । अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि
अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् । भार्याहीनो लभेद्भार्यां सुशीलां सुन्दरीं पराम्
वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् । पतिव्रतां च शुद्धां च कुलजां च वधूं वराम्
विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् । भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाम्
सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा । मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः
षष्ठ्युपाख्यानवर्णनम् नारद उवाच अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् । अन्यासां चरितं ब्रह्मन् वद वेदविदांवर
श्रीनारायण उवाच सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् । पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि
नारद उवाच षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला । उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः