तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः । स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम्
कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् । तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने
कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् । न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा
मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् । एकरात्रे व्यतीते तु भवेच्छतगुणा च सा
त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् । कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत्
स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः । दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् । पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम्
एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् । दत्तं न दीयते दानं ग्रहीता नैव याचते
उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः । नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम्
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद् ध्रुवम् । वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः
ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः । पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः
इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि । नारद उवाच यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने
पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद । श्रीनारायण उवाच कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने
सदक्षिणे कर्मणि च फलमेव प्रवर्तते । अदक्षिणं च यत्कर्म तद्भुङ्क्ते च बलिर्मुने
बलये तत्प्रदत्तं च वामनेन पुरा मुने । अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च
वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् । असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत्
गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः । दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम्
तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय । पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्
मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः । यज्ञ उवाच पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा
राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया । कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे
आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा । पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने
लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा । गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता
कृपां कुरु महाभागे मामेव स्वामिनं कुरु । कर्मिणां कर्मणां देवी त्वमेव फलदा सदा
त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् । त्वया विना तथा कर्म कर्मिणां च न शोभते
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी
फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा । स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि । सर्वकर्मणि शक्तोऽहं त्वया सह वरानने
इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता । तुष्टा बभूव सा देवी भेजे तं कमलाकला