गोपीनां लक्षकोटीनां गोपानां च तथैव च । ब्रह्माण्डानामसंख्यानां तत्रस्थानां तथैव च
विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः । अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः
इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः । रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत्
दर्शनं देहि रमण दीना विरहदुःखिता । अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने
सुचिरं च तपस्तप्त्वा विवेश कमलातनौ । अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम्
नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् । विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम्
दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः । नारायणश्च भगवान् महालक्ष्याश्च देहतः
विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ । ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम्
यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा । तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम्
अतीव कमनीयां च सुन्दरीं सुमनोहराम् । कमलास्यां कोमलाङ्गीं कमलायतलोचनाम्
कमलासनपूज्यां च कमलाङ्गसमुद्भवाम् । वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम्
बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् । ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्
सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् । कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः
सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् । सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम्
कामदेवाधाररूपां कामबाणप्रपीडिताम् । तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह
पत्नीं तामेव जग्राह विधिबोधितपूर्वकम् । दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने
यज्ञो रेमे मुदा युक्तो रामेशो रमया सह । गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम्
ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् । परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः
यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च । कर्मिणां फलदाता चेत्येवं वेदविदो विदुः
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् । फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः । स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम्
कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् । तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने
कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् । न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा
मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् । एकरात्रे व्यतीते तु भवेच्छतगुणा च सा
त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् । कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत्
स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः । दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् । पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम्
एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् । दत्तं न दीयते दानं ग्रहीता नैव याचते
उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः । नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम्