गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा
अतीव सुन्दरी रामा सुभगा सुदती सती । विद्यावती गुणवती चातिरूपवती सती
कलावती कोमलाङ्गी कान्ता कमललोचना । सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता । श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी । भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका । उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा
सम्बभूवानम्रमुखो भयेन मधुसूदनः । दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम्
कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् । कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम्
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानन्तर्धानं चकार सः
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् । विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया
विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः । पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः
रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः । ययुर्भयेन शरणं यस्याश्चरणपङ्कजे
त्रिलक्षकोटयो गोपाः सुदामादय एव च । ययुर्भयेन शरणं तत्पादाब्जे च नारद
पलायन्तं च कान्तं च विज्ञाय परमेश्वरी । पलायन्तीं सहचरीं सुशीलां च शशाप सा
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका । सद्यो गमनमात्रेण भस्मसाच्च भविष्यति
इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा । रासेश्वरी रासमध्ये रासेशमाजुहाव ह
नालोक्य पुरतः कृष्णं राधा विरहकातरा । युगकोटिसमं मेने क्षणभेदेन सुव्रता
हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय । प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने । सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः । परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा
धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा । सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः
सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः । न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते
भरणादेव भर्ता च पालनात्पतिरुच्यते । शरीरेशाच्च स स्वामी कामदः कान्त उच्यते
बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः । ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः
रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः । पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः
शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा । असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा
स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा । प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च
सर्वाण्येव व्रतादीनि महादानानि यानि च । उपोषणानि पुण्यानि यानि यानि श्रुतानि च
गुरुसेवा विप्रसेवा देवसेवादिकं च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम्
गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः । विद्यादाता यथा पुंसां कुलजानां तथा प्रियः