श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः । स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम्
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा
नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते । आविर्भावतिरोभावौ सृष्टौ च प्रलये तव
ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः
कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः । इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि
तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह । तदा पितृभ्यः प्रददौ तामेव कमलाननाम्
तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात्
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः
दक्षिणोपाख्यानवर्णनम् श्रीनारायण उवाच उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् । वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा
अतीव सुन्दरी रामा सुभगा सुदती सती । विद्यावती गुणवती चातिरूपवती सती
कलावती कोमलाङ्गी कान्ता कमललोचना । सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता । श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी । भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका । उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा
सम्बभूवानम्रमुखो भयेन मधुसूदनः । दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम्
कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् । कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम्
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानन्तर्धानं चकार सः
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् । विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया
विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः । पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः
रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः । ययुर्भयेन शरणं यस्याश्चरणपङ्कजे
त्रिलक्षकोटयो गोपाः सुदामादय एव च । ययुर्भयेन शरणं तत्पादाब्जे च नारद
पलायन्तं च कान्तं च विज्ञाय परमेश्वरी । पलायन्तीं सहचरीं सुशीलां च शशाप सा
अद्यप्रभृति गोलोकं सा चेदायाति गोपिका । सद्यो गमनमात्रेण भस्मसाच्च भविष्यति
इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा । रासेश्वरी रासमध्ये रासेशमाजुहाव ह
नालोक्य पुरतः कृष्णं राधा विरहकातरा । युगकोटिसमं मेने क्षणभेदेन सुव्रता
हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय । प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना
स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने । सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा
पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः । परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा