नारद उवाच स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने । श्रोतुमिच्छामि यत्नेन वद वेदविदांवर
श्रीनारायण उवाच ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् । सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये
शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे । स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत्
स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहंमतिः । न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च
ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् । पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे
इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे । दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम्
ओं ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने । समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः
स्तोत्रं शृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद । सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा
श्रीनारायण उवाच स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत्
स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च
श्राद्धकाले स्वधास्तोत्रं यः शृणोति समाहितः । स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः
स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम्
पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा
नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते । आविर्भावतिरोभावौ सृष्टौ च प्रलये तव
ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः
कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः । इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि
तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह । तदा पितृभ्यः प्रददौ तामेव कमलाननाम्
तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः शृणोति समाहितः । स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात्
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः
दक्षिणोपाख्यानवर्णनम् श्रीनारायण उवाच उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् । वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय
गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा
अतीव सुन्दरी रामा सुभगा सुदती सती । विद्यावती गुणवती चातिरूपवती सती
कलावती कोमलाङ्गी कान्ता कमललोचना । सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता
ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता । श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना
कामशास्त्रेषु निपुणा कामिनी हंसगामिनी । भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी
रसज्ञा रसिका रासे रासेशस्य रसोत्सुका । उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा
सम्बभूवानम्रमुखो भयेन मधुसूदनः । दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम्
कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् । कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम्
वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानन्तर्धानं चकार सः
पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् । विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया