सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर
सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो । श्रीनारायण उवाच ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम्
वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर । सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा
स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये । स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम्
सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् । इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः
सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु । ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च
यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् । वह्निरुवाच स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी
शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा । गतिः सदा नराणां च दाहिका दहनक्षमा
संसारसाररूपा च घोरसंसारतारिणी । देवजीवनरूपा च देवपोषणकारिणी
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः । सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च
नाङ्गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् । अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम्
रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात्
स्वधोपाख्यानवर्णनम् श्रीनारायण उवाच शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् । पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम्
सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः । चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः
दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् । आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम्
स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् । आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम्
नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् । बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः
देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् । भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद
ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे । न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः
सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् । सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम्
ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् । रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम्
विद्यावतीं गुणवतीमतिरूपवतीं सतीम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्
विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् । स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम्
शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् । पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम्
पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् । ब्राह्मणानां चोपदेशं चकार गोपनीयकम्
स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि । क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा
स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता । सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम्
पितरो देवता विप्रा मुनयो मनवस्तथा । पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात्
देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः । विप्रादयश्च पितरः स्वधादेवीवरेण च
इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च । सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि