बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् । सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः
प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् । ऋषयो मुनयश्चैव पूजिता यन्निषेवया
तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् । पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः
जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् । तपस्तेपे वर्षलक्षमेकपादेन पद्मजा
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् । अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी
मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी । विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह
समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् । श्रीभगवानुवाच वाराहे वै त्वमंशेन मम पत्नी भविष्यसि
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च । अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी
मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि । वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्
रमिष्यति त्वया सार्धं रामया रमणीयया । इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः । सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम्
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः । तदा दिव्यं वर्षशतं स रेमे रामया सह
अतीव निर्जने देशे सम्भोगसुखदे सदा । बभूव गर्भस्तस्यां च हुताशस्य च तेजसा
तं दधार च सा देवी दिव्यं द्वादशवत्सरम् । ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान्
दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च । ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः
स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे । स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम्
सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः । विषहीनो यथा सर्पो वेदहीनो यथा द्विजः
पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् । फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः
स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः । परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः
स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च । इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम्
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर
सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो । श्रीनारायण उवाच ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम्
वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर । सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा
स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये । स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम्
सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् । इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः
सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने शृणु । ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च
यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् । वह्निरुवाच स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी
शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा । गतिः सदा नराणां च दाहिका दहनक्षमा
संसारसाररूपा च घोरसंसारतारिणी । देवजीवनरूपा च देवपोषणकारिणी
षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः । सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च