देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः । गत्वा निवेदनं चक्रुराहाराभावहेतुकम्
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ । पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया
प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी । अतीव सुन्दरी श्यामा रमणीया मनोहरा
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । उवाचेति विधेरग्रे पद्मयोने वरं वृणु
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् । प्रजापतिरुवाच त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी
दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना । त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् । अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके । ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् । स्वाहोवाच अहं कृष्णं भजिष्यामि तपसा सुचिरेण च
ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च । विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः
बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् । सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः
प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् । ऋषयो मुनयश्चैव पूजिता यन्निषेवया
तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् । पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः
जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् । तपस्तेपे वर्षलक्षमेकपादेन पद्मजा
तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् । अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी
मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी । विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह
समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् । श्रीभगवानुवाच वाराहे वै त्वमंशेन मम पत्नी भविष्यसि
नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च । अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी
मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि । वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम्
रमिष्यति त्वया सार्धं रामया रमणीयया । इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद
तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः । सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम्
सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः । तदा दिव्यं वर्षशतं स रेमे रामया सह
अतीव निर्जने देशे सम्भोगसुखदे सदा । बभूव गर्भस्तस्यां च हुताशस्य च तेजसा
तं दधार च सा देवी दिव्यं द्वादशवत्सरम् । ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान्
दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च । ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः
स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे । स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम्
सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः । विषहीनो यथा सर्पो वेदहीनो यथा द्विजः
पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् । फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः
स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः । परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः
स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च । इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम्