प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः । देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि । ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः । ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् । इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्
सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः
स्वाहोपाख्यानवर्णनम् नारद उवाच नारायण महाभाग नारायण महाप्रभो । रूपेणैव गुणेनैव यशसा तेजसा त्विषा
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने । तपस्विनां मुनीनां च परो वेदविदांवर
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् । अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम्
अतीव गोपनीयं यदुपयुक्तं च सर्वतः । अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम्
श्रीनारायण उवाच नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः । श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम्
तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि । तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः
नारद उवाच स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु । पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा
एतासां चरितं जन्मफलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर
सूत उवाच नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः । कथां कथितुमारेभे पुराणोक्तां पुरातनीम्
श्रीनारायण उवाच सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा । ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम्
गत्वा निवेदनं चक्रुराहारहेतुकं मुने । ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम्
नारद उवाच यज्ञरूपो हि भगवान् कलया च बभूव ह । यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः
श्रीनारायण उवाच हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः । सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव
देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः । गत्वा निवेदनं चक्रुराहाराभावहेतुकम्
ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ । पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया
प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी । अतीव सुन्दरी श्यामा रमणीया मनोहरा
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । उवाचेति विधेरग्रे पद्मयोने वरं वृणु
विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् । प्रजापतिरुवाच त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी
दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना । त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः
सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् । अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी
देवानां पूजिता शश्वन्नरादीनां भवाम्बिके । ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह
तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् । स्वाहोवाच अहं कृष्णं भजिष्यामि तपसा सुचिरेण च
ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च । विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः