दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च
पुरन्दर उवाच नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्यै नमो नमः
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः
सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः । हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः । चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः । नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः
वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी
अदितिर्देवमाता त्वं कमला कमलालया । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा
क्रोधहिंसावर्जिता च वरदा शारदा शुभा । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा
यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना
सर्वेषां च परा माता सर्वबान्धवरूपिणी । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी
यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम्
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्यं सनातनि
अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः । सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् । प्रभावञ्च प्रतापं च सर्वाधिकारमेव च
जयं पराक्रमं युद्धे परमैश्वर्यमेव च । इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः । देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम्
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि । ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः । ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् । इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः
कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम्
सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः
स्वाहोपाख्यानवर्णनम् नारद उवाच नारायण महाभाग नारायण महाप्रभो । रूपेणैव गुणेनैव यशसा तेजसा त्विषा
त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने । तपस्विनां मुनीनां च परो वेदविदांवर
महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् । अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम्