सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् । सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम्
मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् । शीतवायुप्रदं चैव दाहे च सुखदं परम्
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् । सुवासितं सुशीतं च पिपासानाशकारणम्
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् । देहसौन्दर्यबीजं च सदा शोभाविवर्धनम्
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्णविकारं च देहभूषादिवर्धनम्
शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् । नानाऋतुषु निर्माणं बहुशोभाश्रयं परम्
सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम्
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम्
रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् । यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम्
देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् । द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः
मूलं जजाप भक्त्या च दशलक्षं विधानतः । जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः । लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी
वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः । कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान्
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च । मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः
प्रियव्रतोत्तानपादौ केदारो नृप एव च । एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद
सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ । रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा । श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम्
दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च
पुरन्दर उवाच नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्यै नमो नमः
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः
सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः । हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः । चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः । नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः
वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी
अदितिर्देवमाता त्वं कमला कमलालया । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता