स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम्
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम्
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम्
सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश । ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम्
प्रशस्तानि प्रकृष्टानि वराणि विविधानि च । अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् । शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम्
पापेध्मवह्निरूपं च गृह्यतां कमलालये । पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम्
शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि । सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम्
देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये । कार्पासजं च कृमिजं वसनं देवि गृह्यताम्
रत्नस्वर्णविकारं च देहभूषाविवर्धनम् । शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम्
सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् । वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम्
श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् । सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम्
जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् । प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि
नानोपहाररूपं च नानारससमन्वितम् । अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम्
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् । तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम्
शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् । स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम्
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् । स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि
नानाविधानि रम्याणि पक्वान्नानि फलानि च । सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम्
मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये । सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम्
अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् । यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम्
सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् । सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम्
मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् । शीतवायुप्रदं चैव दाहे च सुखदं परम्
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् । सुवासितं सुशीतं च पिपासानाशकारणम्
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् । देहसौन्दर्यबीजं च सदा शोभाविवर्धनम्
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्णविकारं च देहभूषादिवर्धनम्
शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् । नानाऋतुषु निर्माणं बहुशोभाश्रयं परम्
सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम्
गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम्