ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् । अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः
तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया
सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया
आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया
स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्गृहात्सती
शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् । स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात्
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया
ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः
यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्
यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम् । तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति
शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् । दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी
विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् । अर्चनं सर्वदेवानां तत्र पद्ममुखी सती
इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः । क्षीरोदसागरे जन्म कलयाकलयेति च
इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च । मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज
इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने । देवाश्चिरेण कालेन ययुः क्षीरोदसागरम्
मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् । कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः
धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् । नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं सुदर्शनम्
वनमालां ददौ सा च क्षीरोदशायिने मुने । सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती
देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च । ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात्
प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्करम् । महालक्ष्मीप्रसादेन वरदानेन नारद
इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् । सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि
महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् नारद उवाच हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् । ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो
श्रीनारायण उवाच स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी । घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत्
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा
आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् । पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा
पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ । देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् । ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद
ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा । हरिणा तेन ध्यानेन तन्निबोध वदामि ते
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम्