तत्र गत्वा परब्रह्म भगवन्तं सनातनम् । दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा
ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् । शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम्
चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम्
तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम्
वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः । रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः
स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् । रत्नभूषणशून्यं च वाहनादिविवर्जितम्
शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् । उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः
श्रीभगवानुवाच मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते । दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम्
किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् । हितं सत्यं सारभूतं परिणामसुखावहम्
जनाश्चासंख्यविश्वस्था मदधीनाश्च सन्ततम् । यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः
यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः । तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम्
दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात्
यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् । न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति
मद्भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम्
मद्भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे । मम जन्मदिने वापि याति श्रीस्तद्गृहादपि
मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् । यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात्
यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः
महारुष्टा ततो याति मन्दिरात्कमलालया । शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः
याति रुष्टा तद्गृहाच्च देवाः कमलवासिनी । शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः
तत्तोयपानभीता च कमला याति तद्गृहात् । अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः
ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् । अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः
तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया
सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया
आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया
स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्गृहात्सती
शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् । स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात्
व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया
ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः
यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला
यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम्