सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी । बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम
ऋषय ऊचुः कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् । भानुमार्गावरोधं च किमर्थं कृतवानसौ
कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् । प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद
न हि तृप्यामहे साधो त्वदास्यगलितामृतम् । देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते
सूत उवाच आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् । महावनसमूहाढ्यो महापादपसंवृतः
सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः । मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि
वानराः शशका ऋक्षाः शृगालाश्च समन्ततः । विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः
नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः । अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः
एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् । देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः
तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् । पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत्
सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् । विन्ध्य उवाच देवर्षे कथ्यतां जात आगमः कुत उत्तमः
तवागमनतो जातमनर्घ्यं मम मन्दिरम् । तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः
अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद । नारद उवाच ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ
तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् । सर्वेषां लोकपालानां भवनानि समन्ततः
मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च । इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत्
उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् । उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम
इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः । अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम्
गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल । सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम्
एवमेव च कैलासः शिवस्यावसथः प्रभुः । पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः
निषधः पर्वतो नीलो गन्धमादन एव च । पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः
यं पर्येति च विश्वात्मा सहस्रकिरणः स्वराट् । सग्रहर्क्षगणोपेतः सोऽयं कनकपर्वतः
आत्मानं मनुते श्रेष्ठं वरिष्ठं च धराभृताम् । सर्वेषामहमेवाग्र्यो नास्ति लोकेषु मत्समः
एवंमानाभिमानं तं स्मृत्वोच्छ्वासो मयोज्झितः । अस्तु नैतावता कृत्यं तपोबलवतां नग । प्रसङ्गतो मयोक्तं ते गमिष्यामि निजं गृहम्
देवीमाहात्म्ये विन्ध्योपाख्यानवर्णनम् सूतउवाच एवं समुपदिश्यायं देवर्षिः परमः स्वराट् । जगाम ब्रह्मणो लोकं स्वैरचारी महामुनिः
गते मुनिवरे विन्ध्यश्चिन्तां लेभेऽनपायिनीम् । नैव शान्तिं स लेभे च सदान्तःकृतशोचनः
कथं किं त्वत्र मे कार्यं कथं मेरुं जयाम्यहम् । नैव शान्तिं लभे नापि स्वास्थ्यं मे मानसे भवेत्
(धिगुत्साहं च मानं च धिङ्मे कीर्तिं च धिक्कुलम्) धिग्बलं मे पौरुषं धिक् स्मृतं पूर्वैर्महात्मभिः । एवं चिन्तयमानस्य विन्ध्यस्य मनसि स्फुटम्
प्रादुर्भूता मतिः कार्ये कर्तव्ये दोषकारिणी । मेरुप्रदक्षिणां कुर्वन्नित्यमेव दिवाकरः
सग्रहर्क्षगणोपेतः सदा दृप्यत्ययं नगः । तस्य मार्गस्य संरोधं करिष्यामि निजैः करैः
तदा निरुद्धो द्युमणिः परिक्रामेत्कथं नगम् । एवं मार्गे निरुद्धे तु मया दिनकरस्य च