दिनभेदे कोटिगुणमसंख्यं वा ततोऽधिकम् । समे देशे च वस्तूनां दाने पुण्यं समं सुर
देशभेदे कोटिगुणमसंख्यं वा ततोऽधिकम् । समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च
पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम् । यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा । सामान्यदिवसे विप्रदानं समफलं भवेत्
अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् । चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च
ग्रहणे शशिनः कोटिगुणं च फलमेव च । सूर्यस्य ग्रहणे वापि ततो दशगुणं भवेत्
अक्षयायामक्षयं तदसंख्यं फलमुच्यते । एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति
यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु । एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम्
यथा दण्डेन चक्रेण शरावेण भ्रमेण च । कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि
तथैव कर्मसूत्रेण फलं धाता ददाति च । यस्याज्ञया सृष्टमिदं तं च नारायणं भज
स विधाता विधातुश्च पातुः पाता जगत्त्रये । स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् । विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः
इत्येवमुक्त्वा तत्त्वज्ञः समालिङ्ग्य सुरेश्वरम् । दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद
श्रीलक्ष्म्युपाख्यानवर्णनम् श्रीनारायण उवाच हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् । बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह
शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् । प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह
वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति । प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः
ब्रह्मोवाच वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम्
मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् । कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत्
माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत्
जनः पैतृकदोषेण दोषान्मातामहस्य च । गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम्
सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत्
मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत्
आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः
अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् । यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया
शिवेन पूजितं पादपद्मं पुष्पेण येन च । तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया
तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् । सर्वेषां च सुराणां च तत्पूजापुरतो भवेत्
दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः
सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह
निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् । एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह