द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः । अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः
शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव । प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम्
चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि । स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम्
आयाति मधुनो लोभात्क्लेशेन सुखमानितः । परिणामे नाशबीजे जन्ममृत्युजराकरे
अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा । स्वकर्मविहितायां च नानायोन्यां क्रमेण च
ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः । सहस्रेषु शतेष्वेको भवाब्धिपारकारणम्
साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् । तदा करोति यत्नं च जीवो बन्धनखण्डने
अनेकजन्मयोगेन तपसानशनेन च । तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम्
इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर । मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः
वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने । मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम्
दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् । विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित्
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् । शत्रुग्रस्तां च तां दृष्ट्वा जगाम वाक्पतिं प्रति
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् । ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम्
सूर्याभिसम्मुखं पूर्वमुखं च विश्वतोमुखम् । साश्रुनेत्रं पुलकिनं परमानन्दसंयुतम्
वरिष्ठं च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम् । प्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च ज्ञानिनाम्
ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम् । दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः
प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः । प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा । पुनर्वरोपलब्धिं च ज्ञानप्राप्तिं सुदुर्लभाम्
वैरिग्रस्तां च स्वपुरीं क्रमेणैव सुरेश्वरः । शिष्यस्य वचनं श्रुत्वा सुबुद्धिर्वदतां वरः
बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः । गुरुरुवाच श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं शृणु
न कातरो हि नीतिज्ञो विपत्तौ च कदाचन । सम्पत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी
पूर्वस्य कर्मायत्ता च स्वयं कर्ता तयोरपि । सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि
चक्रनेमिक्रमेणैव तत्र का परिदेवना । उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते
शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक् पुमान् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । इत्येवमुक्तं वेदे च कृष्णेन परमात्मना
सामवेदोक्तशाखायां सम्बोध्य कमलोद्भवम् । जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम्
अनुरूपं हि तेषां च भारतेऽन्यत्र चैव हि । कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम्
कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा । कोटिजन्मार्जितं कर्म जीविनामनुगच्छति
न हि त्यजेद्विना भोगं तच्छायेव पुरन्दर । कालभेदे देशभेदे पात्रभेदे च कर्मणाम्
न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा । वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने