पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् । तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति
तत्पादरजसा मूढ सद्यः पूता वसुन्धरा । पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च
यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् । शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना
चिकित्सकद्विजान्नं च देवलान्नं तथैव च । कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम्
उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् । शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम्
अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् । अगम्यागामिनां चैव द्विजानामन्नमेव च
मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् । मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च
एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् । श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत्
हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः । अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः । ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च
कोटिजन्मार्जितात्पापान्मुच्यते निश्चितं हरे । यस्मात्संस्थापितं पुष्पं गर्वेण करिमस्तके
तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् । नारायणस्य भक्तोऽहं न बिभेमि सुराद्विधेः
कालान्मृत्योर्जरातश्च कानन्यान् गणयामि च । किं करिष्यति ते तातः कश्यपश्च प्रजापतिः
बृहस्पतिर्गुरुश्चैव निःशङ्कस्य च मे हरे । इदं पुष्पं यस्य मूर्ध्नि तस्यैव पूजनं परम्
इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुनेः । उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः
महेन्द्र उवाच दत्तः समुचितः शापो मह्यं मायापहः प्रभो । हृतां न याचे सम्पत्तिं किञ्चिज्ज्ञानं च देहि मे
ऐश्वर्यं विपदां बीजं ज्ञानप्रच्छन्नकारणम् । मुक्तिमार्गकुठारश्च भक्तेश्च व्यवधायकम्
मुनिरुवाच जन्ममृत्युजराशोकरोगबीजाङ्कुरं परम् । सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति
सम्पन्मत्तो विमूढश्च सुरामत्तः स एव च । बान्धवैर्वेष्टितः सोऽपि बन्धुत्वेनैव हे हरे
सम्पत्तिमदमत्तश्च विषयान्धश्च विह्वलः । महाकामी राजसिकः सत्त्वमार्गं न पश्यति
द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः । अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः
शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव । प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम्
चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि । स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम्
आयाति मधुनो लोभात्क्लेशेन सुखमानितः । परिणामे नाशबीजे जन्ममृत्युजराकरे
अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा । स्वकर्मविहितायां च नानायोन्यां क्रमेण च
ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः । सहस्रेषु शतेष्वेको भवाब्धिपारकारणम्
साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् । तदा करोति यत्नं च जीवो बन्धनखण्डने
अनेकजन्मयोगेन तपसानशनेन च । तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम्
इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर । मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः
वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने । मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम्