देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद । तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः
नारद उवाच कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन । केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा
ममन्थुः केनरूपेण जलधिं ते सुरादयः । केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा
को वा तयोश्च संवादो बभूव तद्वद प्रभो । श्रीनारायण उवाच मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा
क्रीडां चकार रहसि रम्भया सह कामुकः । कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः
तस्थौ तत्र महारण्ये कामोन्मथितमानसः । कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम्
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम्
प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् । शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम्
महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् । समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः
दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः । शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम्
मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः । विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम्
तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् । शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा
पुष्पं स न्यस्तयामास तदैव करिमस्तके । हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च
तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह । त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम्
न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने । तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः
तमुवाच महारुष्टः शशाप च रुषान्वितः । मुनिरुवाच अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे
मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके । विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम्
प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् । भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः
यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् । प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम्
पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् । नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम्
पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् । तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति
तत्पादरजसा मूढ सद्यः पूता वसुन्धरा । पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च
यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् । शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना
चिकित्सकद्विजान्नं च देवलान्नं तथैव च । कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम्
उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् । शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम्
अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् । अगम्यागामिनां चैव द्विजानामन्नमेव च
मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् । मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च
एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् । श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत्
हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः । अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च
सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः । ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च