त्वदंशसम्भवा एव त्वच्छक्तिपरिबृंहिताः । अथापि यदि मे देवि वरो देयोऽस्ति साम्प्रतम्
तदा प्रह्वाः सर्गकार्ये विघ्ना नश्यन्तु मे शिवे । वाग्भवस्यापि मन्त्रस्य ये केचिदुपसेविनः
तेषां सिद्धिः सत्वरापि कार्याणां जायतामपि । ये संवादमिमं देवि पठन्ति श्रावयन्ति च
तेषां लोके भुक्तिमुक्ती सुलभे भवतां शिवे । जातिस्मरत्वं भवतु वक्तृत्वं सौष्ठवं तथा
ज्ञानसिद्धिः कर्ममार्गसंसिद्धिरपि चास्तु हि । पुत्रपौत्रसमृद्धिश्च जायेदित्येव मे वचः
विन्ध्योपाख्यानवर्णनम् श्रीदेव्युवाच भूमिपाल महाबाहो सर्वमेतद्भविष्यति । यत्त्वया प्रार्थितं तत्ते ददामि मनुजाधिप
अहं प्रसन्ना दैत्येन्द्रनाशनामोघविक्रमा । वाग्भवस्य जपेनैव तपसा ते सुनिश्चितम्
राज्यं निष्कण्टकं तेऽस्तु पुत्रा वंशकरा अपि । मयि भक्तिर्दृढा वत्स मोक्षान्ते सत्पदे भवेत्
एवं वरान्महादेवी तस्मै दत्त्वा महात्मने । पश्यतस्तु मनोरेव जगाम विन्ध्यपर्वतम्
योऽसौ विन्ध्याचलो रुद्धः कुम्भोद्भवमहर्षिणा । भानुमार्गावरोधार्थं प्रवृत्तो गगनं स्पृशन्
सा विन्ध्यवासिनी विष्णोरनुजा वरदेश्वरी । बभूव पूज्या लोकानां सर्वेषां मुनिसत्तम
ऋषय ऊचुः कोऽसौ विन्ध्याचलः सूत किमर्थं गगनं स्पृशन् । भानुमार्गावरोधं च किमर्थं कृतवानसौ
कथं च मैत्रावरुणिः पर्वतं तं महोन्नतम् । प्रकृतिस्थं चकारेति सर्वं विस्तरतो वद
न हि तृप्यामहे साधो त्वदास्यगलितामृतम् । देव्याश्चरित्ररूपाख्यं पीत्वा तृष्णा प्रवर्धते
सूत उवाच आसीद्विन्ध्याचलो नाम मान्यः सर्वधराभृताम् । महावनसमूहाढ्यो महापादपसंवृतः
सुपुष्पितैरनेकैश्च लतागुल्मैस्तु संवृतः । मृगा वराहा महिषा व्याघ्राः शार्दूलका अपि
वानराः शशका ऋक्षाः शृगालाश्च समन्ततः । विचरन्ति सदा हृष्टा पुष्टा एव महोद्यमाः
नदीनदजलाक्रान्तो देवगन्धर्वकिन्नरैः । अप्सरोभिः किम्पुरुषैः सर्वकामफलद्रुमैः
एतादृशे विन्ध्यनगे कदाचित्पर्यटन् महीम् । देवर्षिः परमप्रीतो जगाम स्वेच्छया मुनिः
तं दृष्ट्वा स नगो मङ्क्षु तूर्णमुत्थाय सम्भ्रमात् । पाद्यमर्घ्यं तथा दत्त्वा वरासनमथार्पयत्
सुखोपविष्टं देवर्षिं प्रसन्नं नग ऊचिवान् । विन्ध्य उवाच देवर्षे कथ्यतां जात आगमः कुत उत्तमः
तवागमनतो जातमनर्घ्यं मम मन्दिरम् । तव चङ्क्रमणं देवाभयार्थं हि यथा रवेः
अपूर्वं यन्मनोवृत्तं तद् ब्रूहि मम नारद । नारद उवाच ममागमनमिन्द्रारे जातं स्वर्णगिरेरथ
तत्र दृष्टा मया लोकाः शक्राग्नियमपाशिनाम् । सर्वेषां लोकपालानां भवनानि समन्ततः
मया दृष्टानि विन्ध्याग नानाभोगप्रदानि च । इति चोक्त्वा ब्रह्मयोनिः पुनरुच्छ्वासमाविशत्
उच्छ्वसन्तं मुनिं दृष्ट्वा पुनः पप्रच्छ शैलराट् । उच्छ्वासकारणं किं तद् ब्रूहि देवऋषे मम
इत्याकर्ण्य नगस्योक्तं देवर्षिरमितद्युतिः । अब्रवीच्छ्रूयतां वत्स ममोच्छ्वासस्य कारणम्
गौरीगुरुस्तु हिमवाञ्छिवस्य श्वशुरः किल । सम्बन्धित्वात्पशुपतेः पूज्य आसीत्क्षमाभृताम्
एवमेव च कैलासः शिवस्यावसथः प्रभुः । पूज्यः पृथ्वीभृतां जातो लोके पापौघदारणः
निषधः पर्वतो नीलो गन्धमादन एव च । पूज्याः स्वस्थानमासाद्य सर्व एव क्षमाभृतः