वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु । वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च
द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च । विष्णुना पूजिता सा च क्षीरोदे भारते मुने
स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः । ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे
गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता । शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा
भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद । चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे
विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः । वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले
मनुस्तां पूजयामास सा भूता भुवनत्रये । पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला
केदारेणैव नीलेन सुबलेन नलेन च । ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा
कश्यपेन च दक्षेण कर्दमेन विवस्वता । प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना
यमेन वह्निना चैव वरुणेनैव पूजिता । एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा । सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी
ति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युपाख्यानवर्णनं नामैकोनचत्वारिंशोऽध्यायः
लक्ष्म्युत्पत्तिवर्णनम् नारद उवाच नारायणप्रिया सा च परा वैकुण्ठवासिनी । वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका । पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि
श्रीनारायण उवाच पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः । बभूव देवसङ्घश्च मर्त्यलोके हि नारद
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता । गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद
तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् । ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च
वैकुण्ठे शरणापन्ना देवा नारायणे परे । अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः
तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया । बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी
तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह । सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह
सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे । ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने
देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद । तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः
नारद उवाच कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन । केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा
ममन्थुः केनरूपेण जलधिं ते सुरादयः । केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा
को वा तयोश्च संवादो बभूव तद्वद प्रभो । श्रीनारायण उवाच मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा
क्रीडां चकार रहसि रम्भया सह कामुकः । कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः
तस्थौ तत्र महारण्ये कामोन्मथितमानसः । कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम्
दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम्
प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् । शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम्
महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् । समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः
दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः । शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम्