सर्वकालं सर्वरूपा संसेव्या परमेश्वरी । नातः परतरं किञ्चित्कृतकृत्यत्वदायकम्
इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् । गृहीत्वा स्वामिनं सा च सावित्री च निजालयम्
सावित्री सत्यवांश्चैव प्रययौ च यथागमम् । अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद
सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च । श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च
लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते । जगाम स्वामिना सार्धं देवीलोकं पतिव्रता
सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता । सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता
इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् । जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि
लक्ष्म्युपाख्यानवर्णनम् नारद उवाच श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः । सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः
तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् । अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर
केनादौ पूजिता सापि किंभूता केन वा पुरा । तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर
श्रीनारायण उवाच सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः । देवी वामांससम्भूता बभूव रासमण्डले
अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता । यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा । शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना
शरन्मध्याह्नपद्मानां शोभामोचनलोचना । सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया
स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा । यशसा वाससा कृत्या भूषणेन गुणेन च
स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च । तद्वामांसान्महालक्ष्मीर्दक्षिणासांच्च राधिका
राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् । महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम्
कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह । दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः
चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा । लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम्
देवीभूता च महती महालक्ष्मीश्च सा स्मृता । राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः
शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता । चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह
सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ । महालक्ष्मीश्च योगेन नानारूपा बभूव सा
वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा । शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता
प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च । स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी
पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः
सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला । गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी
क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च । शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता
विभूषणेषु रत्नेषु फलेषु च जलेषु च । नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च
सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च । प्रतिमासु च देवानां मङ्गलेषु घटेषु च
माणिक्येषु च मुक्तासु माल्येषु च मनोहरा । मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च