गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु । तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः
जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः
सारात्सारतरा भक्तिरसपीयूषपायिनः । विराडंशाश्च महति लीनाः कृष्णे महाविराट्
यस्यैव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत्
चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः । यावत्कालो निमेषेण तावदुन्मीलनेन च
ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते
यथा भूरजसां चैव संख्यानं नैव विद्यते । चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया । स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि
एकैव च परा शक्तिर्निर्गुणः परमः पुमान् । सदेवेदमग्र आसीदिति वेदविदो विदुः
मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति
तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः । मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः
तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी । सालोक्यदा भवेदेका तथा सारूप्यदा परा
सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा । भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः
शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया । जन्ममृत्युजराव्याधिभयशोकादिकं धनम्
दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः । मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी
भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु । विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम्
तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् । तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः
निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् । इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम्
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः । दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च
रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता । सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः
तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह । धर्मराज उवाव लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते
अन्ते यास्यसि तल्लोकं यत्र देवी विराजते । गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु
द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् । ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम्
शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् । द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते
करोति भक्त्या या नारी सा याति च विभोः पदम् । प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम्
प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिनीम् । तथा चाषाढसङ्क्रान्त्यां मनसां सर्वसिद्धिदाम्
राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् । उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम्
विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् । प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च
पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च । या नारी पूजयेद्भक्त्या धनसन्तानहेतवे
इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् । एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम्