इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः । अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम्
एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः । ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम्
ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः । चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः
प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः । लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः । विलीना वामपार्श्वे च कृष्णस्य परमात्मनः
यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः । दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता । नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः । पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते
गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः । कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता
सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च । स्थिता वाणी च जिह्वायां यस्य च परमात्मनः
गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु । तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः
जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः
सारात्सारतरा भक्तिरसपीयूषपायिनः । विराडंशाश्च महति लीनाः कृष्णे महाविराट्
यस्यैव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत्
चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः । यावत्कालो निमेषेण तावदुन्मीलनेन च
ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते
यथा भूरजसां चैव संख्यानं नैव विद्यते । चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया । स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि
एकैव च परा शक्तिर्निर्गुणः परमः पुमान् । सदेवेदमग्र आसीदिति वेदविदो विदुः
मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति
तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः । मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः
तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी । सालोक्यदा भवेदेका तथा सारूप्यदा परा
सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा । भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः
शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया । जन्ममृत्युजराव्याधिभयशोकादिकं धनम्
दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः । मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी
भक्तिमुक्त्योरयं भेदो निषेकखण्डनं शृणु । विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम्
तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् । तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः
निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् । इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम्
तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः । दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च
रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता । सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः