तपसां फलदाता च कर्मणां च यदाज्ञया । विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम्
कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् । शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः
यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः । परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः
यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् । तपनश्च प्रतपति यद्भयात्सन्ततं सति
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम्
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया । भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च
भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् । यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात्
तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया । अकाले नाहरेद्विद्धं रणेषु विषमेषु च
धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया । कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान्
सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या । यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि
इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः । अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम्
एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः । ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम्
ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः । चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः
प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः । लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे
विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः । विलीना वामपार्श्वे च कृष्णस्य परमात्मनः
यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः । दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः
सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता । नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च
श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः । पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते
गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः । कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता
सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च । स्थिता वाणी च जिह्वायां यस्य च परमात्मनः
गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु । तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः
जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः
सारात्सारतरा भक्तिरसपीयूषपायिनः । विराडंशाश्च महति लीनाः कृष्णे महाविराट्
यस्यैव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत्
चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः । यावत्कालो निमेषेण तावदुन्मीलनेन च
ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च संख्या नास्त्येव सुव्रते
यथा भूरजसां चैव संख्यानं नैव विद्यते । चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः
उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया । स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि
एकैव च परा शक्तिर्निर्गुणः परमः पुमान् । सदेवेदमग्र आसीदिति वेदविदो विदुः
मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति