तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना । अतीव निर्जनेऽरण्ये गोलोके रासमण्डले
तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् । धर्मं च कथयामास शिवलोके शिवः स्वयम्
धर्मस्तु कथयामास भास्वते पृच्छते तथा । यामाराध्य मत्पितापि सम्प्राप तपसा सति
पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः । वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते
तदा मां कथयामास पिता तद्गुणकीर्तनम् । यथागमं तद्वदामि निबोधातीव दुर्गमम्
तद्गुणं सा न जानाति तदन्यस्य च का कथा । यथाकाशो न जानाति स्वान्तमेव वरानने
सर्वात्मा सर्वभगवान् सर्वकारणकारणः । सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः । निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः । मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः
स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् । यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित्
सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी । रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे
गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह । अतीव कमनीयं च सुन्दरं सुमनोहरम्
नवीननीरदश्यामं किशोरं गोपवेषकम् । कन्दर्पकोटिलावण्यं लीलाधाममनोहरम्
शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् । शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम्
अमूल्यरत्ननिर्माणनानाभूषणभूषितम् । सस्मितं शोभितं शश्वदमूल्यपीतवाससा
परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा । सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम्
गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् । रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम्
वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् । कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम्
कुङ्कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् । चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम्
चारुचन्द्रकशोभाढ्यं चूडावङ्क्रिमराजितम् । एवंभूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः
यद्भयाज्जगता धाता विधत्ते सृष्टिमेव च । कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम्
तपसां फलदाता च कर्मणां च यदाज्ञया । विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम्
कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् । शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः
यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः । परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः
यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् । तपनश्च प्रतपति यद्भयात्सन्ततं सति
यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम्
दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया । भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च
भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् । यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात्
तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया । अकाले नाहरेद्विद्धं रणेषु विषमेषु च
धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया । कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान्
सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या । यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि