धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत्
धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् । षडशीति च कुण्डानि मयोक्तानि निशामय । लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि
सावित्र्युपाख्यानवर्णनम् सावित्र्युवाच देवीभक्तिं देहि मह्यं साराणां चैव सारकम् । पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम्
कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् । दारकं कर्मवृक्षाणां कृतपापौघहारणम्
मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् । देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम्
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता । किञ्चिञ्ज्ञानं सारभूतं वद वेदविदां वर
सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः । अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम्
पितुः शतगुणा माता गौरवे चेति निश्चितम् । मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो
धर्मराज उवाच पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः । अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात्
श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम्। वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम्
शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः । मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च
धाता चतुर्णां वेदानां विधाता जगतामपि । ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित्
कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् । न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः
सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च । कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये
सरस्वती जडीभूता नालं तद्गुणवर्णने । सनत्कुमारो धर्मश्च सनन्दनः सनातनः
सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः । विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः
न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा । के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने
ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः । अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम्
कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् । अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः
ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः । सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः
तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना । अतीव निर्जनेऽरण्ये गोलोके रासमण्डले
तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् । धर्मं च कथयामास शिवलोके शिवः स्वयम्
धर्मस्तु कथयामास भास्वते पृच्छते तथा । यामाराध्य मत्पितापि सम्प्राप तपसा सति
पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः । वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते
तदा मां कथयामास पिता तद्गुणकीर्तनम् । यथागमं तद्वदामि निबोधातीव दुर्गमम्
तद्गुणं सा न जानाति तदन्यस्य च का कथा । यथाकाशो न जानाति स्वान्तमेव वरानने
सर्वात्मा सर्वभगवान् सर्वकारणकारणः । सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः । निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः
निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः । मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः
स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् । यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित्
सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी । रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे