पततां पापिनां यत्र भवेदेव प्रकम्पनम् । अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम्
ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे । धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम्
लक्षपौरुषमानं च गम्भीरं च धनुःशतम् । नानाप्रकारकृमिभिः संयुक्तं च भयानकम्
अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् । तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम्
तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः । ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः । धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम्
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः । धनुःषोडशमानं च तत्कुण्डं दण्डताडनम्
निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः । धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम्
पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह । लोहबन्दीनिबद्धानां कोटिपौरुषमानकम्
गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् । मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम्
दलिताः पापिनो यत्र मम दूतैश्च ताडिताः । धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम्
पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः । बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम्
शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् । शोषणं कुण्डमेतद्धि पापिनां परदुःखदम्
नानाचर्मकषायोदपरिपूर्णं धनुःशतम् । दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम्
शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् । तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम्
दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति । शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम्
प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् । अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा
धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि । ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च
तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् । पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत्
तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् । धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम्
धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत्
धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् । षडशीति च कुण्डानि मयोक्तानि निशामय । लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि
सावित्र्युपाख्यानवर्णनम् सावित्र्युवाच देवीभक्तिं देहि मह्यं साराणां चैव सारकम् । पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम्
कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् । दारकं कर्मवृक्षाणां कृतपापौघहारणम्
मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् । देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम्
तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता । किञ्चिञ्ज्ञानं सारभूतं वद वेदविदां वर
सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः । अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम्
पितुः शतगुणा माता गौरवे चेति निश्चितम् । मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो
धर्मराज उवाच पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः । अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात्
श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम्। वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम्