कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम्
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम्
गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम्
धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम्
कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम्
लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च
पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम्
ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम्
पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः
अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि । प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम्
अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम्
व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् । मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम्
यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् । भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते
अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् । हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः । तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम्
पातमात्रेण पापी च पाशेन वेष्टितो भवेत् । क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः
पातमात्रेण पापी च शूलेन वेष्टितो भवेत् । धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम्
पततां पापिनां यत्र भवेदेव प्रकम्पनम् । अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम्
ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे । धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम्
लक्षपौरुषमानं च गम्भीरं च धनुःशतम् । नानाप्रकारकृमिभिः संयुक्तं च भयानकम्
अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् । तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम्
तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः । ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः
नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः । धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम्
दण्डेन ताडिता यत्र मम दूतैश्च पापिनः । धनुःषोडशमानं च तत्कुण्डं दण्डताडनम्
निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः । धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम्
पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह । लोहबन्दीनिबद्धानां कोटिपौरुषमानकम्
गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् । मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम्