शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितैः
पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः । क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम्
ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् । अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम्
नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् । द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम्
तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः । ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम्
प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् । असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः
क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् । पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवम् । ७२ परित्राहीति शब्दं च कुर्वतामसतामपि । गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम्
तदसीपत्रकुण्डं च कीर्तितं च भयानकम् । धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम्
पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् । सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम्
पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति
कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम्
तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम्
गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम्
धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम्
कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम्
लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च
पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम्
ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम्
पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि
ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः
सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः
उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः
अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि । प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम्
अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम्
व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् । मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम्
यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् । भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते
अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् । हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः
तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः । तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम्
पातमात्रेण पापी च पाशेन वेष्टितो भवेत् । क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः
पातमात्रेण पापी च शूलेन वेष्टितो भवेत् । धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम्